(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.77. अध्यायः 077
Mahabharata - Udyoga Parva - Chapter Topics
अर्जुनेन सन्धिविग्रहपक्षौ प्रस्तुत्य श्रीकृष्णंप्रति यथारुचि अन्यतरपक्षनिर्धारणकरणप्रार्थना ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text

अर्जुन उवाच। 5-77-0x(3628)(34556)
उक्तं युधिष्ठिरेणैव यावद्वाच्यं जनार्दन ।
तव वाक्यं तु मे श्रुत्वा प्रतिभाति परन्तप ॥ 5-77-1(34557)
नैव प्रशममत्र त्वं मन्यसे सुकरं प्रभो ।
लोभाद्वा धृतराष्ट्रस्य दैन्याद्वा समुपस्थितात् ॥ 5-77-2(34558)
अफलं मन्यसे वाऽपि पुरुषस्य पराक्रमम् ।
न चान्तरेण कर्माणि पौरुषेण बलोदयः ॥ 5-77-3(34559)
तदिदं भाषितं वाक्यं तथाचन तथैव तत्।
न चैतदेवं द्रष्टव्यमसाध्यमपि किंचन ॥ 5-77-4(34560)
किं चैतन्मन्यसे कृच्छ्रमस्माकमवसादकम्।
कुर्वन्ति तेषां कर्माणि येषां नास्ति फलोदयः ॥ 5-77-5(34561)
संपाद्यमानं सम्यक्व स्यात्कर्म सफलं प्रभो।
स तथा कृष्ण वर्तस्व यथा शर्म भवेत्परैः ॥ 5-77-6(34562)
पाण्डवानां कुरूणां च भवान्नः प्रथमः सुहृत्।
सुराणामसुराणां च यथा वीर प्रजापतिः ॥ 5-77-7(34563)
कुरूणां पाण्डवानां च प्रतिपत्स्व निरामयम् ।
अस्मद्धितमनुष्ठानं मन्ये तव न दुष्करम् ॥ 5-77-8(34564)
एवं च कार्यतामेति कार्यं तव जनार्दन ।
गमनादेवमेव त्वं करिष्यसि जनार्दन ॥ 5-77-9(34565)
चिकीर्षितमथान्यत्ते तस्मिन्वीर दुरात्मानि ।
भविष्यति च तत्सर्वं यथा तव चिकीर्षितम् ॥ 5-77-10(34566)
शर्म तैः सह वा नोऽस्तु तव वा यच्चिकीर्षितम् ।
विचार्यमाणो यः कामस्तव कृष्ण स नो गुरुः ॥ 5-77-11(34567)
न स नार्हति दुष्टात्मा वधं ससुतबान्धवः।
येन धर्मसुते दृष्टा न सा श्रीरुपमर्षिता ॥ 5-77-12(34568)
यच्चाप्यपश्यतोपायं धर्मिष्ठं मधुसूदन।
उपायेन नृशंसेन हृता दुर्द्यूतदेविना ॥ 5-77-13(34569)
कथं हि पुरुषो जातः क्षत्रियेषु धनुर्धरः ।
समाहूतो निवर्तेत प्राणत्यागेऽप्युपस्थिते ॥ 5-77-14(34570)
अधर्मेण जितान्दृष्ट्वा वने प्रवृजितांस्तथा।
वध्यतां मम वार्ष्णेय निर्गतोऽसौ सुयोधनः ॥ 5-77-15(34571)
न चैतदद्भुतं कृष्ण मित्रार्थे यच्चिकीर्षसि।
क्रिया कथंच मुख्या स्यान्मृदुना चेतरेण वा ॥ 5-77-16(34572)
अथवा मन्यसे ज्यायान्वधस्तेषामनन्तरम् ।
तदेव क्रियतामाशु न विचार्यमतस्त्वया ॥ 5-77-17(34573)
जानासि हि यथैतेन द्रौपदी पापबुद्धिना ।
परिक्लिष्टा सभामध्ये तच्च तस्योपमर्षितम् ॥ 5-77-18(34574)
स नाम सम्यग्वर्तेत पाण्डवेष्विति माधव।
न मे सञ्जायते बुद्धिर्बीजमुप्तमिवोषरे ॥ 5-77-19(34575)
तस्माद्यन्मन्यसे युक्तं पाण्डवानां हितं च यत्।
तथाऽऽशु कुरु वार्ष्णेय यन्नः कार्यमनन्तरम् ॥ ॥ 5-77-20(34576)

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि सप्तसप्ततितमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-77-2 दैन्याद्वा अस्मदीयात् ॥ 5-77-4 नहि युद्धं न कामये इति यत्त्वया भाषित तथाचन तथापिच चनशब्दोऽप्यर्थे । यद्यपि ममैतदनिष्टं तथापि त्वया यद्भाषितं तत्तथैव भविध्यतीत्यर्थः । परंतु शमोपि तव नासाध्योऽस्तीत्याह नचेति ॥ 5-77-8 निरामयं कुशलम् ॥ 5-77-9 कार्यतां औचित्यम्। कार्यं कर्म ॥ 5-77-14 समाहूतो द्यूतार्थम् ॥ 5-77-15 निर्गतः निश्चयेन प्राप्तः ॥ 5-77-16 कथंच कथमपि। मुख्या फलवती। मृदुना साम्ना। इतरेण युद्धेन ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.